॥ द्वितीयोऽध्यायः ॥
समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु
तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥
तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव
तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव
तदाहुः ॥ २.१.२॥
अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव
तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव
तदाहुः ॥ २.१.३॥
स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेनꣳ
साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २.१.४॥
॥ इति प्रथमः खण्डः ॥
लोकेषु पञ्चविधꣳ सामोपासीत पृथिवी हिंकारः ।
अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो
द्यौर्निधनमित्यूर्ध्वेषु ॥ २.२.१॥
अथावृत्तेषु द्यौर्हिंकार आदित्यः
प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी
निधनम् ॥ २.२.२॥
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं
विद्वाꣳल्लोकेषु पञ्चविधं सामोपास्ते ॥ २.२.३॥
॥ इति द्वितीयः खण्डः ॥
वृष्टौ पञ्चविधꣳ सामोपासीत पुरोवातो हिंकारो
मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते
स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ २.३.१॥
वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ
पञ्चविधꣳसामोपास्ते ॥ २.३.२॥
॥ इति तृतीयः खण्डः ॥
सर्वास्वप्सु पञ्चविधꣳसामोपासीत मेघो यत्सम्प्लवते
स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते
स उद्गीथो याः प्रतीच्यः स प्रतिहारः
समुद्रो निधनम् ॥ २.४.१॥
न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु
पञ्चविधꣳसामोपास्ते ॥ २.४.२॥
॥ इति चतुर्थः खण्डः ॥
ऋतुषु पञ्चविधꣳ सामोपासीत वसन्तो हिंकारः
ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो
हेमन्तो निधनम् ॥ २.५.१॥
कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं
विद्वानृतुषु पञ्चविधꣳ सामोपास्ते ॥ २.५.२॥
॥ इति पञ्चमः खण्डः ॥
पशुषु पञ्चविधꣳ सामोपासीताजा हिंकारोऽवयः
प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
पुरुषो निधनम् ॥ २.६.१॥
भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं
विद्वान्पशुषु पञ्चविधꣳ सामोपास्ते ॥ २.६.२॥
॥ इति षष्ठः खण्डः ॥
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो
हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो
मनो निधनं परोवरीयाꣳसि वा एतानि ॥ २.७.१॥
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति
य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः
सामोपास्त इति तु पञ्चविधस्य ॥ २.७.२॥
॥ इति सप्तमः खण्डः ॥
अथ सप्तविधस्य वाचि सप्तविध्ꣳ सामोपासीत
यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो
यदेति स आदिः ॥ २.८.१॥
यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो
यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २.८.२॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
य एतदेवं विद्वान्वाचि सप्तविधꣳ सामोपास्ते ॥ २.८.३॥
॥ इति अष्टमः खण्डः ॥
अथ खल्वमुमादित्यꣳसप्तविधꣳ सामोपासीत सर्वदा
समस्तेन साम मां प्रति मां प्रतीति सर्वेण
समस्तेन साम ॥ २.९.१॥
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति
विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य
पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति
हिंकारभाजिनो ह्येतस्य साम्नः ॥ २.९.२॥
अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या
अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशꣳसाकामाः
प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २.९.३॥
अथ यत्संगववेलायाꣳ स आदिस्तदस्य वयाꣳस्यन्वायत्तानि
तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं
परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ २.९.४॥
अथ यत्सम्प्रतिमध्यंदिने स उद्गीथस्तदस्य
देवा अन्वायत्तास्तस्मात्ते सत्तमाः
प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ २.९.५॥
अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स
प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते
प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो
ह्येतस्य साम्नः ॥ २.९.६॥
अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स
उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं
दृष्ट्वा कक्षꣳश्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो
ह्येतस्य साम्नः ॥ २.९.७॥
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य
पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो
ह्येतस्य साम्न एवं खल्वमुमादित्यꣳ सप्तविधꣳ
सामोपास्ते ॥ २.९.८॥
॥ इति नवमः खण्डः ॥
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधꣳ
सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव
इति त्र्यक्षरं तत्समम् ॥ २.१०.१॥
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं
तत इहैकं तत्समम् ॥ २.१०.२॥
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं
त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते
त्र्यक्षरं तत्समम् ॥ २.१०.३॥
निधनमिति त्र्यक्षरं तत्सममेव भवति
तानि ह वा एतानि द्वाविꣳशतिरक्षराणि ॥ २.१०.४॥
एकविꣳशत्यादित्यमाप्नोत्येकविꣳशो वा
इतोऽसावादित्यो द्वाविꣳशेन परमादित्याज्जयति
तन्नाकं तद्विशोकम् ॥ २.१०.५॥
आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो
भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु
सप्तविधꣳ सामोपास्ते सामोपास्ते ॥ २.१०.६॥
॥ इति दशमः खण्डः ॥
मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः
प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ २.११.१॥
स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २.११.२॥
॥ इति एकदशः खण्डः ॥
अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो
ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार
उपशाम्यति तन्निधनꣳ सꣳशाम्यति
तन्निधनमेतद्रथंतरमग्नौ प्रोतम् ॥ २.१२.१॥
स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न
निष्ठीवेत्तद्व्रतम् ॥ २.१२.२॥
॥ इति द्वादशः खण्डः ॥
उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः
स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते
स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति
तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ २.१३.१॥
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद
मिथुनी भवति मिथुनान्मिथुनात्प्रजायते
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥ २.१३.२॥
॥ इति त्रयोदशः खण्डः ॥
उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः
प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २.१४.१॥
स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २.१४.२॥
॥ इति चतुर्दशः खण्डः ॥
अभ्राणि सम्प्लवन्ते स हिंकारो मेघो जायते
स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति
स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ २.१५.१॥
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद
विरूपाꣳश्च सुरूपꣳश्च पशूनवरुन्धे
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ २.१५.२॥
॥ इति पञ्चदशः खण्डः ॥
वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः
शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ २.१६.१॥
स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति
प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति
ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥ २.१६.२॥
॥ इति षोडशः खण्डः ॥
पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो
दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो
लोकेषु प्रोताः ॥ २.१७.१॥
स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २.१७.२॥
॥ इति सप्तदशः खण्डः ॥
अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ २.१८.१॥
स य एवमेता रेवत्यः पशुषु प्रोता वेद
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या
पशून्न निन्देत्तद्व्रतम् ॥ २.१८.२॥
॥ इति अष्टादशः खण्डः ॥
लोम हिंकारस्त्वक्प्रस्तावो माꣳसमुद्गीथोस्थि
प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु
प्रोतम् ॥ २.१९.१॥
स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति
नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं
मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो
नाश्नीयादिति वा ॥ २.१९.२॥
॥ इति एकोनविंशः खण्डः ॥
अग्निर्हिंकारो वायुः प्रस्ताव आदित्य उद्गीथो
नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं
देवतासु प्रोतम् ॥ २.२०.१॥
स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव
देवतानाꣳसलोकताꣳसर्ष्टिताꣳसायुज्यं गच्छति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २.२०.२॥
॥ इति विंशः खण्डः ॥
त्रयी विद्या हिंकारस्त्रय इमे लोकाः स
प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि
वयाꣳसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः
पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ २.२१.१॥
स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वꣳ ह
भवति ॥ २.२१.२॥
तदेष श्लोको यानि पञ्चधा त्रीणी त्रीणि
तेभ्यो न ज्यायः परमन्यदस्ति ॥ २.२१.३॥
यस्तद्वेद स वेद सर्वꣳ सर्वा दिशो बलिमस्मै हरन्ति
सर्वमस्मीत्युपासित तद्व्रतं तद्व्रतम् ॥ २.२१.४॥
॥ इति एकविंशः खण्डः ॥
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः
प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः
श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं
वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ २.२२.१॥
अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां
पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः
स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि
मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २.२२.२॥
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः
प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं
यदि स्वरेषूपालभेतेन्द्रꣳशरणं प्रपन्नोऽभूवं
स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.३॥
अथ यद्येनमूष्मसूपालभेत प्रजापतिꣳशरणं
प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं
ब्रूयादथ यद्येनꣳ स्पर्शेषूपालभेत मृत्युꣳ शरणं
प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.४॥
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं
ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता
वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा
लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं
परिहराणीति ॥ २.२२.५॥
॥ इति द्वाविंशः खण्डः ॥
त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप
एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी
तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व
एते पुण्यलोका भवन्ति ब्रह्मसꣳस्थोऽमृतत्वमेति ॥ २.२३.१॥
प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या
सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि
सम्प्रास्र्वन्त भूर्भुवः स्वरिति ॥ २.२३.२॥
तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः
सम्प्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि
संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदꣳ
सर्वमोंकार एवेदꣳ सर्वम् ॥ २.२३.३॥
॥ इति त्रयोविंशः खण्डः ॥
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनꣳ रुद्राणां
माध्यंदिनꣳ सवनमादित्यानां च विश्वेषां च
देवानां तृतीयसवनम् ॥ २.२४.१॥
क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं
कुर्यादथ विद्वान्कुर्यात् ॥ २.२४.२॥
पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन
गार्हपत्यस्योदाङ्मुख उपविश्य स वासवꣳ
सामाभिगायति ॥ २.२४.३॥
लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयꣳ
रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११
इति ॥ २.२४.४॥
अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक
एतास्मि ॥ २.२४.५॥
अत्र यजमानः परस्तादायुषः स्वाहापजहि
परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनꣳ
सम्प्रयच्छन्ति ॥ २.२४.६॥
पुरा माध्यंदिनस्य
सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख
उपविश्य स रौद्रꣳसामाभिगायति ॥ २.२४.७॥
लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं
वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति ॥ २.२४.८॥
अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक
एतास्मि ॥ २.२४.९॥
अत्र यजमानः परस्तादायुषः स्वाहापजहि
परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा
माध्यंदिनꣳसवनꣳसम्प्रयच्छन्ति ॥ २.२४.१०॥
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख
उपविश्य स आदित्यꣳस वैश्वदेवꣳ सामाभिगायति ॥ २.२४.११॥
लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयꣳ स्वारा
३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति ॥ २.२४.१२॥
आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम
त्वा वयꣳसाम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११
इति ॥ २.२४.१३॥
अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो
दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय
विन्दत ॥ २.२४.१४॥
एष वै यजमानस्य लोक एतास्म्यत्र यजमानः
परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ २.२४.१५॥
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनꣳ
सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद
य एवं वेद ॥ २.२४.१६॥
॥ इति चतुर्विंशः खण्डः ॥
॥ इति द्वितीयोऽध्यायः ॥
Kommentare