top of page

०१६ । आरुणिकोपनिषत्


॥ आरुणिकोपनिषत् ॥


आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः ।

यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥


ॐ आप्यायन्त्विति शान्तिः ॥


ॐ आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम । तं

गत्वोवाच । केन भगवन्कर्माण्यशेषतो विसृजामीति ।

तं होवाच प्रजापतिस्तव

पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं

स्वाध्यायं

भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं

चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं

च विसृजेत् । दण्डमाच्छादनं चैव कौपीनं च

परिग्रहेत् । शेषं विसृजेदिति ॥ १॥


गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा उपवीतं भूमावप्सु

वा विसृजेत् । लौकिकाग्नीनुदराग्नौ समारोपयेत् ।

गायत्रीं च स्ववाचाग्नौ समारोपयेत् । कुटीचरो

ब्रह्मचारी कुटुंबं विसृजेत् । पात्रं विसृजेत् ।

पवित्रं विसृजेत् । दण्डाॅंलोकांश्च विसृजेदिति होवाच

। अत उर्ध्वममन्त्रवदाचरेत् । ऊर्ध्वगमनं विसृजेत् ।

औषधवदशनमाचरेत् । त्रिसन्ध्यादौ स्नानमाचरेत् ।

सन्धिं समाधावात्मन्याचरेत् । सर्वेषु

वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तय्

एदिति ॥ २॥


खल्वहं ब्रह्मसूचनात्सूत्रं ब्रह्मसूत्रमहमेव

विद्वान्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया

संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं

सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । सखामागोपायोजः

सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव

यत्पापं तन्निवारयेति । अनेन मन्त्रेण कृतं वाइणवं

दण्डं कौपीनं

परिग्रहेदौषधवदशनमाचरेदौषधवदशनं

प्राश्नीयाद्यथालाभमश्नीयात् । ब्रह्मचर्यमहिंसा

चापरिग्रहं च सत्यं च यत्नेन हे रक्षत हे रक्षत हे

रक्षत इति ॥ ३॥


अथातः परमहंसपरिव्राजकानामासनशयनादिकं भूमौ

ब्रह्मचर्यं मृत्पात्रमलाम्बुपात्रं दारुपात्रं वा

यतीनां

कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छासूयाममत्वाहङ्क्

आरादीनपि परित्यजेत् । वर्षासु ध्रुवशीलोऽष्टौ

मासानेकाकी यतिश्चरेत् द्वावेव वा विचरेद्द्वावेव वा

विचरेदिति ॥ ३॥


स खल्वेवं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत्

। पित्रं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह यतयो

भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रमुदरपात्रं वा ।

ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेत् ॥


खल्वेतदुपनिषदं विद्वान्य एवं वेद पालाशं

बैल्वमाश्वत्थमौदुम्बरं दण्डं मौञ्जीं मेखलां

यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । तद्विष्णोः

परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं

पदमिति । एवं निर्वाणानुशासनं वेदानुशासनं

वेदानुशासनमिति ॥ ५॥


ॐ आप्यायन्त्विति शान्तिः ॥


इति सामवेदीयारुणिकोपनिषत्समाप्ता ॥

5 次查看0 則留言

Comments


bottom of page