top of page

००८ । ऐतरेयोपनिषत्

ऐतरेयोपनिषत्


वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥


वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्

सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतु

तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥


॥ ॐ शान्तिः शान्तिः शान्तिः॥


॥ अथ ऐतरेयोपनिषदि प्रथमाध्याये प्रथमः खण्डः ॥


ॐ आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् । स ईक्षत

लोकान्नु सृजा इति ॥ १॥


स इमाँ ल्लोकानसृजत । अम्भो मरीचीर्मरमापोऽदोऽम्भः परेण दिवं

द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः ।

पृथिवी मरो या अधस्तात्त आपः ॥ २॥


स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति ॥ सोऽद्भ्य एव पुरुषं

समुद्धृत्यामूर्छयत् ॥ ३॥


तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं

मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतं नासिकाभ्यां प्राणः ।

प्राणाद्वायुरक्षिणी निरभिद्येतमक्षीभ्यां चक्षुश्चक्षुष

आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं

श्रोत्रद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो

हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत

नाभ्या अपानोऽपानान्मृत्युः

शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥ ४॥


॥ इत्यैतरेयोपनिषदि प्रथमाध्याये प्रथमः खण्डः ॥


॥ अथ ऐतरेयोपनिषदि प्रथमाध्याये द्वितीयः खण्डः ॥


ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन्

। तमशनापिपासाभ्यामन्ववार्जत् । ता

एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति ॥ १॥


ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति ।

ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति ॥ २॥


ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं बतेति पुरुषो वाव सुकृतम् ।

ता अब्रवीद्यथायतनं प्रविशतेति ॥ ३॥


अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके

प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशाद्दिशः

श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा

त्वचंप्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो

भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन् ॥ ४॥


तमशनायापिपासे अब्रूतामावाभ्यामभिप्रजानीहीति ते अब्रवीदेतास्वेव

वां देवतास्वाभजाम्येतासु भागिन्न्यौ करोमीति । तस्माद्यस्यै कस्यै

च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनायापिपासे

भवतः ॥ ५॥


॥ इत्यैतरेयोपनिषदि प्रथमाध्याये द्वितीयः खण्डः ॥


॥ अथ ऐतरेयोपनिषदि प्रथमाध्याये तृतीयः खण्डः ॥


स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति ॥ १॥


सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्तिरजायत ।

या वै सा मूर्तिरजायतान्नं वै तत् ॥ २॥


तदेनत्सृष्टं पराङ्त्यजिघांसत्तद्वाचाऽजिघृक्षत्

तन्नाशक्नोद्वाचा ग्रहीतुम् ।

स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत् ॥ ३॥


तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत्प्राणेन ग्रहीतुं स

यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य

हैवान्नमत्रप्स्यत् ॥ ४॥


तच्चक्षुषाऽजिघृक्षत् तन्नाशक्नोच्चक्षुषा ग्रहीतु/न् स

यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा हैवानमत्रप्स्यत् ॥ ५॥


तच्छ्रोत्रेणाजिघृक्षत् तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुं स

यद्धैनच्छ्रोतेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत् ॥ ६॥


तत्त्वचाऽजिघृक्षत् तन्नाशक्नोत्त्वचा ग्रहीतुं स

यद्धैनत्त्वचाऽग्रहैष्यत् स्पृष्ट्वा हैवान्नमत्रप्स्यत् ॥ ७॥


तन्मनसाऽजिघृक्षत् तन्नाशक्नोन्मनसा ग्रहीतुं स

यद्धैनन्मनसाऽग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत् ॥ ८॥


तच्छिश्नेनाजिघृक्षत् तन्नाशक्नोच्छिश्नेन ग्रहीतुं स

यद्धैनच्छिश्नेनाग्रहैष्यद्वित्सृज्य हैवानमत्रप्स्यत् ॥ ९॥


तदपानेनाजिघृक्षत् तदावयत् सैषोऽन्नस्य ग्रहो

यद्वायुरनायुर्वा एष यद्वायुः ॥ १०॥


स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत कतरेण प्रपद्या इति ।

स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि

चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं

यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं

यदि शिश्नेन विसृष्टमथ कोऽहमिति ॥ ११॥


स एतमेव सीमानं विदर्यैतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम

द्वास्तदेतन्नाऽन्दनम् ।

तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ

इति ॥ १२॥


स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति ।स एतमेव

पुरुषं ब्रह्म ततममपश्यत् । इदमदर्शनमिती ३ ॥ १३॥


तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम । तमिदन्द्रं सन्तमिन्द्र

इत्याचक्षते परोक्षेण ।

परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १४॥


॥ इत्यैतरेयोपनिषदि प्रथमाध्याये तृतीयः खण्डः ॥


॥ अथ ऐतरोपनिषदि द्वितीयोध्यायः ॥


ॐ पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः

।तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतमात्मन्येवऽऽत्मानं बिभर्ति

तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म ॥ १॥


तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति ।

साऽस्यैतमात्मानमत्र गतं भावयति ॥ २॥


सा भावयित्री भावयितव्या भवति । तं स्त्री गर्भ बिभर्ति । सोऽग्र

एव कुमारं जन्मनोऽग्रेऽधिभावयति ।

स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येषं

लोकानां सन्तत्या ।

एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ॥ ३॥


सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायामितर आत्मा

कृतकृत्यो वयोगतः प्रैति ।

स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥ ४॥


तदुक्तमृषिणा गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि

विश्वा शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति ।

गर्भ एवैतच्छयानो वामदेव एवमुवाच ॥ ५॥


स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन् स्वर्गे लोके

सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् ॥ ६॥


॥ इत्यैतरोपनिषदि द्वितीयोध्यायः ॥


॥ अथ ऐतरोपनिषदि तृतीयोध्यायः ॥


ॐ कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा । येन वा पश्यति येन

वा श‍ृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन

वा स्वादु चास्वादु च विजानाति ॥ १॥


यदेतद्धृदयं मनश्चैतत् । सञ्ज्ञानमाज्ञानं विज्ञानं

प्रज्ञानं मेधा

दृष्टिर्धृतिमतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो

वश इति ।

सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ २॥


एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च

पञ्चमहाभूतानि पृथिवी वायुराकाश आपो

ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव ।

बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि

चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि

च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं

प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३॥


स एतेन प्राज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्

कामानाप्त्वाऽमृतः समभवत् समभवत् ॥ ४॥


॥ इत्यैतरोपनिषदि तृतीयोध्यायः ॥


ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म

एधि वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्

सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु

तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥


॥ ॐ शान्तिः शान्तिः शान्तिः॥

相關文章

查看全部
०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति...

 
 
 
०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम...

 
 
 
०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ...

 
 
 

Commenti


© 2018-2025 Brahmavidyāvihāra

  • 小电视_edited_edited_edited
  • 白色的YouTube圖標
bottom of page